अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 32
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्। दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठयस्य॑ । भूमि॑: । प्र॒ऽमा । अ॒न्तरि॑क्षम् । उ॒त । उ॒दर॑म् । दिव॑म् । य: । च॒क्रे । मू॒र्धान॑म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३२॥
स्वर रहित मन्त्र
यस्य भूमिः प्रमान्तरिक्षमुतोदरम्। दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठयस्य । भूमि: । प्रऽमा । अन्तरिक्षम् । उत । उदरम् । दिवम् । य: । चक्रे । मूर्धानम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(यस्य) परमात्मनः (भूमिः) (प्रमा) पादमूलं यथा (अन्तरिक्षम्) (उत) अपि (उदरम्) उदरतुल्यम् (दिवम्) प्रकाशमयं सूर्यम् (यः) (चक्रे) रचितवान् (मूर्धानम्) शिरोवत् (तस्मै) (ज्येष्ठाय) म० १७। वृद्धतमाय। सर्वोत्कृष्टाय (ब्रह्मणे) बृंहेर्नोऽच्च। उ० ४।१४६। बृहि वृद्धौ−मनिन्, नस्य अकारः रत्वम्। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः-इत्यमरः २३।११४। बृंहति वर्धत इति ब्रह्म ब्रह्मा वा। सर्वमहते परमेश्वराय (नमः) सत्कारः ॥
इस भाष्य को एडिट करें