अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 14
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही। ए॑क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । ऋष॑य: । प्र॒थ॒म॒ऽजा: । ऋच॑: । साम॑ । यजु॑: । म॒ही । ए॒क॒ऽऋ॒षि: । यस्मि॑न् । आर्पि॑त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१४॥
स्वर रहित मन्त्र
यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही। एकर्षिर्यस्मिन्नार्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । ऋषय: । प्रथमऽजा: । ऋच: । साम । यजु: । मही । एकऽऋषि: । यस्मिन् । आर्पित: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(यत्र) यस्मिन् परमेश्वरे (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः (प्रथमजाः) सृष्ट्यादौ सृष्टाः (ऋचः) स्तुतिविद्याः। ऋग्वेदः (साम) अ० ७।५४।१। षो अन्तकर्मणि−मनिन्। दुःखनाशिका मोक्षविद्या। सामवेदः (यजुः) अ० ७।५४।२। सङ्गतिकरणविद्या। यजुर्वेदः (मही) वाणी-निघ० १।११। पूजनीयब्रह्मविद्या। अथर्ववेदः (एकर्षिः) ऋषिर्दर्शनात्-निरु० २।१। एकदर्शी। समदर्शी स्वभावः (यस्मिन्) परमात्मनि (आर्पितः) म० २१। समन्तात् स्थापितः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें