अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 9
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य। एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥
स्वर सहित पद पाठकिय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । भू॒तम् । किय॑त् । भ॒वि॒ष्यत् । अ॒नु॒ऽआश॑ये । अ॒स्य॒ । एक॑म् । यत् । अङ्ग॑म् । अकृ॑णोत् । स॒ह॒स्र॒ऽधा । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ ॥७.९॥
स्वर रहित मन्त्र
कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य। एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥
स्वर रहित पद पाठकियता । स्कम्भ: । प्र । विवेश । भूतम् । कियत् । भविष्यत् । अनुऽआशये । अस्य । एकम् । यत् । अङ्गम् । अकृणोत् । सहस्रऽधा । कियता । स्कम्भ: । प्र । विवेश । तत्र ॥७.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(भूतम्) अतीतकालम् (भविष्यत्) अनागतकालम् (अन्वाशये) अनु+आङ्+शीङ् शयने-अच्। निरन्तर आशये, आधारे (अस्य) परमेश्वरस्य (एकम्) अत्यल्पमित्यर्थः (यत्) (अङ्गम्) जगतो विभागम् (अकृणोतु) रचितवान् (सहस्रधा) बहुप्रकारेण (तत्र) तस्मिन् जगतो भागे। अन्यत् पूर्ववत्−म० ८ ॥
इस भाष्य को एडिट करें