अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते। स॑मु॒द्रो यस्य॑ ना॒ड्यः पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्यु: । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्र: । यस्य॑ । ना॒ड्य᳡: । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१५॥
स्वर रहित मन्त्र
यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते। समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । अमृतम् । च । मृत्यु: । च । पुरुषे । अधि । समाहिते इति सम्ऽआहिते । समुद्र: । यस्य । नाड्य: । पुरुषे । अधि । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(यत्र) यस्मिन् परमात्मनि (अमृतम्) अमरत्वं पौरुषादिकम् (च च) (मृत्युः) मरणकारणमालस्यादिकम् (पुरुषे) मनुष्यनिमित्ते (अधि) सप्तम्यर्थानुवादी (समाहिते) सस्यक् स्थापिते (समुद्रः) अन्तरिक्षम्-निघ० १।३ (यस्य) (नाड्यः) नाड्यो यथा (पुरुषे) (अधि) अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें