अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 29
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भेऽध्यृ॒तमाहि॑तम्। स्कम्भं॒ त्वा वे॑द प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम् ॥
स्वर सहित पद पाठस्क॒म्भे । लो॒का: । स्क॒म्भे । तप॑: । स्क॒म्भे । अधि॑ । ऋ॒तम् । आऽहि॑तम् । स्कम्भ॑ । त्वा॒ । वे॒द॒ । प्र॒ति॒ऽअक्ष॑म् । इन्द्रे॑ । सर्व॑म् । स॒म्ऽआहि॑तम् ॥७.२९॥
स्वर रहित मन्त्र
स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम्। स्कम्भं त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥
स्वर रहित पद पाठस्कम्भे । लोका: । स्कम्भे । तप: । स्कम्भे । अधि । ऋतम् । आऽहितम् । स्कम्भ । त्वा । वेद । प्रतिऽअक्षम् । इन्द्रे । सर्वम् । सम्ऽआहितम् ॥७.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(स्कम्भे) सर्वधारके परमेश्वरे (लोकाः) भुवनानि (तपः) ऐश्वर्यम्। सामर्थ्यम् (अधि) आधिक्ये (ऋतम्) सत्यं वेदशास्त्रम् (आहितम्) समन्तात् स्थापितम् (स्कम्भ) हे सर्वधारक (त्वा) त्वाम् (वेद) जानामि (प्रत्यक्षम्) साक्षात् (इन्द्रे) परमैश्वर्यवति त्वयि (सर्वम्) समस्तं जगत् (समाहितम्) परस्परं धृतम् ॥
इस भाष्य को एडिट करें