अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 28
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
हि॑रण्यग॒र्भं प॑र॒मम॑नत्यु॒द्यं जना॑ विदुः। स्क॒म्भस्तदग्रे॒ प्रासि॑ञ्च॒द्धिर॑ण्यं लो॒के अ॑न्त॒रा ॥
स्वर सहित पद पाठहि॒र॒ण्य॒ऽग॒र्भम् । प॒र॒मम् । अ॒न॒ति॒ऽउ॒द्यम् । जना॑: । वि॒दु॒: । स्क॒म्भ: । तत् । अग्रे॑ । प्र । अ॒सि॒ञ्च॒त् । हिर॑ण्यम् । लो॒के । अ॒न्त॒रा ॥७.२८॥
स्वर रहित मन्त्र
हिरण्यगर्भं परममनत्युद्यं जना विदुः। स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥
स्वर रहित पद पाठहिरण्यऽगर्भम् । परमम् । अनतिऽउद्यम् । जना: । विदु: । स्कम्भ: । तत् । अग्रे । प्र । असिञ्चत् । हिरण्यम् । लोके । अन्तरा ॥७.२८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(हिरण्यगर्भम्) अ० ४।२।७। तेजसो गर्भमाधारम् (परमम्) सर्वोत्कृष्टं प्रणवम् (अनत्युद्यम्) वद व्यक्तायां वाचि-क्यप्। सर्वतोऽकथनीयं परमात्मानम् (जनाः) विद्वांसः (स्कम्भः) स्तम्भः। सर्वधारकः परमेश्वरः (तत्) पूर्वोक्तम् (अग्रे) सृष्ट्यादौ (प्र) प्रकर्षेण (असिञ्चत्) सिक्तवान् (हिरण्यम्) प्रकाशम् (लोके) (अन्तरा) मध्ये ॥
इस भाष्य को एडिट करें