Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 20
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्। सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्मा॑त् । ऋच॑: । अ॒प॒ऽअत॑क्षन् । यजु॑: । यस्मा॑त् । अ॒प॒ऽअक॑षन् । सामा॑नि । यस्य॑ । लोमा॑नि । अ॒थ॒र्व॒ऽअ॒ङ्गि॒रस॑: । मुख॑म् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२०॥


    स्वर रहित मन्त्र

    यस्मादृचो अपातक्षन्यजुर्यस्मादपाकषन्। सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्मात् । ऋच: । अपऽअतक्षन् । यजु: । यस्मात् । अपऽअकषन् । सामानि । यस्य । लोमानि । अथर्वऽअङ्गिरस: । मुखम् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 20

    टिप्पणीः - २०−(यस्मात्) परमेश्वरात् प्राप्य (ऋचः) ऋग् वाङ्नाम-निघ० १।११। ऋग्वेदमन्त्राः [अपातक्षन्] तक्षू तनूकरणे-लङ्। सूक्ष्मीकृतवन्तः। यथावद् विचारितवन्तः (यजुः) अ० ७।५४।२। यजुर्वेदम्। सत्कर्मज्ञानम् (यस्मात्) (अपाकषन्) कष हिंसायाम्-लङ्। कषपाषाणेन सुवर्णघर्षणप्रस्तरेण यथा साक्षात्कृतवन्तः (सामानि) अ० ७।५४।१। षो अन्तकर्मणि-मनिन्। सामज्ञानानि। मोक्षज्ञानानि (यस्य) (लोमानि) रोमतुल्यानि (अथर्वाङ्गिरसः) स्नामदिपद्यर्ति०। उ० ४।११३। अ+थर्व चरणे=गतौ-वनिप्, वलोपो विकल्पेन। अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। अङ्गतेरसिरिरुडागमश्च। उ० ४।२३६। अगि गतौ-असि, इरुडागमश्च। अथर्वणो निश्चलस्वभावस्य परमेश्वरस्य अङ्गिरसो बोधाः। अथर्ववेदमन्त्राः (मुखम्)। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top