Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 2
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥

    स्वर सहित पद पाठ

    कस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥


    स्वर रहित मन्त्र

    कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्वा। कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥

    स्वर रहित पद पाठ

    कस्मात् । अङ्गात् । दीप्यते । अग्नि: । अस्य । कस्मात् । अङ्गात् । पवते । मातरिश्वा । कस्मात् । अङ्गात् । वि । मिमीते । अधि । चन्द्रमा: । मह: । स्कम्भस्य । मिमान: । अङ्गम् ॥७.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 2

    टिप्पणीः - २−(कस्मात् अङ्गात्) (दीप्यते) प्रकाशते (अग्निः) प्रसिद्धो वह्निः (अस्य) परमेश्वरस्य (पवते) पवते गतिकर्मा-निघ० २।१४। गच्छति (मातरिश्वा) अ० ५।१०।८। आकाशे गन्ता वायुः (वि) विविधम् (मिमीते) मानं करोति स्वमार्गस्य (अधि) उपरि (चन्द्रमाः) चन्द्रलोकः (महः) महतः (स्कम्भस्य) स्कभि प्रतिबन्धे-अच्। स्तम्भस्य। सर्वधारकस्य परमेश्वरस्य (मिमानः) मानं कुर्वाणः (अङ्गम्) स्वरूपम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top