Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 44
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - एकावसाना पञ्चपदा निचृत्पदपङ्क्तिर्द्विपदार्च्यनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ॥

    स्वर सहित पद पाठ

    इ॒मे । म॒यूखा॑: । उप॑ । त॒स्त॒भु॒: । दिव॑म् । सामा॑नि । च॒क्रु॒: । तस॑राणि । वात॑वे ॥ ७.४४॥


    स्वर रहित मन्त्र

    इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥

    स्वर रहित पद पाठ

    इमे । मयूखा: । उप । तस्तभु: । दिवम् । सामानि । चक्रु: । तसराणि । वातवे ॥ ७.४४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 44

    टिप्पणीः - ४४−(इमे) सूक्तोक्ताः (मयूखाः) माङ ऊखो मय च। उ० ५।२५। माङ् माने ऊख, धोतोर्मयादेशः, यद्वा, मय गतौ ऊख। मयूखाः, रश्मिनाम-निघ० १।५। ज्ञानप्रकाशाः (उप) (तस्तभुः) नलोपः। तस्तम्भुः। दधुः (दिवम्) आकाशम्। तत्रत्यब्रह्माण्डम् (सामानि) म० २०। मोक्षज्ञानानि (चक्रुः) कृतवन्तः (तसराणि) तन्यृषिभ्यां क्सरन्। उ० ३।७५। तनु विस्तारे क्सरन्, कित्त्वादनुनासिकलोपः। विस्तारान् (वातवे) तुमर्थे सेसेनसे०। पा० ३।४।९। वा गतिगन्धनयोः-तवेन्। प्राप्तुम् ॥

    इस भाष्य को एडिट करें
    Top