Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 37
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑। किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥

    स्वर सहित पद पाठ

    क॒थम् । वात॑: । न । इ॒ल॒य॒ति॒ । क॒थम् । न । र॒म॒ते॒ । मन॑: । किम् । आप॑: । स॒त्यम् । प्र॒ऽईप्स॑न्ती: । न । इ॒ल॒य॒न्ति॒ । क॒दा । च॒न ॥७.३७॥


    स्वर रहित मन्त्र

    कथं वातो नेलयति कथं न रमते मनः। किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥

    स्वर रहित पद पाठ

    कथम् । वात: । न । इलयति । कथम् । न । रमते । मन: । किम् । आप: । सत्यम् । प्रऽईप्सन्ती: । न । इलयन्ति । कदा । चन ॥७.३७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 37

    टिप्पणीः - ३७−(कथम्) केन प्रकारेण (वातः) वायुः (न) निषेधे (इलयति) इल स्वप्नक्षेपणयोः। स्वपिति (कथम्) (न) (रमते) उपरमति। तिष्ठति (मनः) सङ्कल्पविकल्पात्मकमन्तःकरणम् (किम्) (आपः) प्रजाः। जलानि (सत्यम्) परमात्मनियमम् (प्रेप्सन्तीः) प्राप्तुमिच्छन्त्यः (न) (इलयन्ति) शेरते (कदा चन) कस्मिन्नपि काले ॥

    इस भाष्य को एडिट करें
    Top