अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 27
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥
स्वर सहित पद पाठयस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । गात्रा॑ । वि॒ऽभे॒जि॒रे । तान् । वै । त्रय॑:ऽत्रिंशत् । दे॒वान् । एके॑ । ब्र॒ह्म॒ऽविद॑: । वि॒दु॒: ॥७.२७॥
स्वर रहित मन्त्र
यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे। तान्वै त्रयस्त्रिंशद्देवानेके ब्रह्मविदो विदुः ॥
स्वर रहित पद पाठयस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । गात्रा । विऽभेजिरे । तान् । वै । त्रय:ऽत्रिंशत् । देवान् । एके । ब्रह्मऽविद: । विदु: ॥७.२७॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(यस्य) यज पूजने−ड। यजनीयस्य पूजनीयस्य परमेश्वरस्य (त्रयस्त्रिंशत्) म० १३ (देवाः) दिव्यपदार्थाः (अङ्गे) अवयवे (गात्रा) अवयवान् (विभेजिरे) विभक्तवन्तः (तान्) (वै) एव (त्रयस्त्रिंशत्) (देवान्) (एके) केचित् (ब्रह्मविदः) ब्रह्मज्ञानिनः (विदुः) जानन्ति ॥
इस भाष्य को एडिट करें