Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 17
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥

    स्वर सहित पद पाठ

    ये । पुरु॑षे । ब्रह्म॑ । वि॒दु: । ते । वि॒दु॒: । प॒र॒मे॒ऽस्थिन॑म् । य: । वेद॑ । प॒र॒मे॒ऽस्थिन॑म् । य: । च॒ । वेद॑ । प्र॒जाऽप॑तिम् । ज्ये॒ष्ठम् । ये । ब्राह्म॑णम् । वि॒दु: । ते । स्क॒म्भम् । अ॒नु॒ऽसंवि॑दु: ॥७.१७॥


    स्वर रहित मन्त्र

    ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम्। यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम्। ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥

    स्वर रहित पद पाठ

    ये । पुरुषे । ब्रह्म । विदु: । ते । विदु: । परमेऽस्थिनम् । य: । वेद । परमेऽस्थिनम् । य: । च । वेद । प्रजाऽपतिम् । ज्येष्ठम् । ये । ब्राह्मणम् । विदु: । ते । स्कम्भम् । अनुऽसंविदु: ॥७.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 17

    टिप्पणीः - १७−(ये) ब्रह्मज्ञानिनः (पुरुषे) मनुष्ये (ब्रह्म) परमात्मानम् (विदुः) जानन्ति (ते) विद्वांसः (विदुः) (परमेष्ठिनम्) अ० १।७।२। सर्वोपरिविराजमानम् (यः) पुरुषः (वेद) जानाति (प्रजापतिम्) सर्वप्राणिरक्षकम् (ज्येष्ठम्) वृद्ध वा प्रशस्य-इष्ठन्। वृद्धस्य च। पा० ५।३।६२। ज्यादेशः। वृद्धतमम्। प्रशस्यतमम् (ये) (ब्राह्मणम्) अ० २।६।३। वेदज्ञातारम् (अनुसंविदुः) पूर्णरीत्या जानन्ति। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top