अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 43
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि यत॒रा प॒रस्ता॑त्। पुमा॑नेनद्वय॒त्युद्गृ॑णत्ति॒ पुमा॑नेन॒द्वि ज॑भा॒राधि॒ नाके॑ ॥
स्वर सहित पद पाठतयो॑: । अ॒हम् । प॒रि॒नृत्य॑न्त्यो:ऽइव । न । वि । जा॒ना॒मि॒ । य॒त॒रा । प॒रस्ता॑त् । पुमा॑न् । ए॒न॒त् । व॒य॒ति॒ । उत् । गृ॒ण॒त्ति॒ । पुमा॑न् । ए॒न॒त् । वि । ज॒भा॒र॒ । अधि॑ । नाके॑ ॥७.४३॥
स्वर रहित मन्त्र
तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्। पुमानेनद्वयत्युद्गृणत्ति पुमानेनद्वि जभाराधि नाके ॥
स्वर रहित पद पाठतयो: । अहम् । परिनृत्यन्त्यो:ऽइव । न । वि । जानामि । यतरा । परस्तात् । पुमान् । एनत् । वयति । उत् । गृणत्ति । पुमान् । एनत् । वि । जभार । अधि । नाके ॥७.४३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 43
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४३−(तयोः) युवत्योर्मध्ये (अहम्) (परिनृत्यन्त्योः) परितश्चेष्टायमानयोः (इव) यथा (न) निषेधे (वि) विशेषेण (जानामि) (यतरा) कतरा (परस्तात्) अग्रे वर्तमाना (पुमान्) अ० १।८।१। पा रक्षणे−डुमसुन्। रक्षकः। पुरुषः। आदिपुरुषः (एनत्) (तन्त्रम्) (वयति) तन्तुवत् संतनोति (उत्) बन्धने (गृणत्ति) गॄ निगरणे, छान्दसं रूपम्। गिरति। निगरति। भक्षयति (पुमान्) (एनत्) (वि जभार) विहृतवान्। विस्तारितवान् (अधि) (नाके) अ० १।९।२। पिनाकादयश्च। उ० ४।१५। णीञ् प्रापणे आकप्रत्ययः, टि-लोपः। नाक आदित्यो भवति नेता रसानां नेता भासां ज्योतिषां प्रणयः, अथ द्यौः निरु० २।१४। आकाशे ॥
इस भाष्य को एडिट करें