Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 42
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    त॒न्त्रमेके॑ युव॒ती विरू॑पे अभ्या॒क्रामं॑ वयतः॒ षण्म॑यूखम्। प्रान्या तन्तूं॑स्ति॒रते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मातो॒ अन्त॑म् ॥

    स्वर सहित पद पाठ

    त॒न्त्रम् । एके॒ इति॑ । यु॒व॒ती इति॑ । विरू॑पे इति॒ विऽरू॑पे । अ॒भि॒ऽआ॒क्राम॑म् । व॒य॒त॒: । षट्ऽम॑यूखम् । प्र । अ॒न्या । तन्तू॑न् । ति॒रते॑ । ध॒त्ते । अ॒न्या । न । अप॑ । वृ॒ञ्जा॒ते॒ इति॑ । न । ग॒मा॒त॒: । अन्त॑म् ॥७.४२॥


    स्वर रहित मन्त्र

    तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम्। प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥

    स्वर रहित पद पाठ

    तन्त्रम् । एके इति । युवती इति । विरूपे इति विऽरूपे । अभिऽआक्रामम् । वयत: । षट्ऽमयूखम् । प्र । अन्या । तन्तून् । तिरते । धत्ते । अन्या । न । अप । वृञ्जाते इति । न । गमात: । अन्तम् ॥७.४२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 42

    टिप्पणीः - ४२−(तन्त्रम्) तनु विस्तारे-ष्ट्रन्। विस्तारम्। कालरूपजालम् (एके) एकैके (युवती) तरुणस्त्रियौ यथा। संयोगवियोगस्वभावे (विरूपे) विरुद्धस्वरूपे (अभ्याक्रामम्) आभीक्ष्ण्ये णमुल् च। पा० ३।४।२२। अभि+आङ्+क्रमु पादविक्षेपे-णमुल्। परस्परमतिक्रम्य (वयतः) तन्तुरूपेण विस्तारयतः (षण्मयूखम्) माङ ऊखो मय च। उ० ५।२५। माङ् माने ऊख, धातोर्मयादेशः यद्वा मय गतौ-ऊख। षट्सु दिक्षु मयूखो मानं गतिर्वा यस्य तत् (अन्या) एका (तन्तून्) प्रकाशान्धकाररूपाणि सूत्राणि (प्रतिरते) वर्धयति। विस्तारयति (धत्ते) धरति (अन्या) (न) निषेधे (अप वृञ्जाते) अपत्यजतः (न) (गमातः) लङर्थे लेट्। गच्छतः। प्राप्नुतः (अन्तम्) सीमाम् ॥

    इस भाष्य को एडिट करें
    Top