अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 11
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्। ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । तप॑: । प॒रा॒ऽक्रम्य॑ । व्र॒तम् । धा॒रय॑ति । उत्ऽत॑रम् । ऋ॒तम् । च॒ । यत्र॑ । श्र॒ध्दा । च॒ । आप॑: । ब्रह्म॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.११॥
स्वर रहित मन्त्र
यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम्। ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । तप: । पराऽक्रम्य । व्रतम् । धारयति । उत्ऽतरम् । ऋतम् । च । यत्र । श्रध्दा । च । आप: । ब्रह्म । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(यत्र) यस्मिन् ब्रह्मणि (तपः) ऐश्वर्यं सामर्थ्यम् (पराक्रम्य) पराक्रमं कृत्वा (व्रतम्) व्रतमिति कर्मनाम वृणोतीति सतः-निरु० २।१३। वरणीयं कर्म (धारयति) दधाति (उत्तरम्) उत्कृष्टम् (ऋतम्) सत्यशास्त्रम् (च) (यत्र) (श्रद्धा) सत्यधारणविश्वासः (च) (आपः) आप्ताः प्रजाः-दयानन्दभाष्ये यजु० ६।२७ (ब्रह्म) ब्रह्मणि (समाहिताः) सम्यक् स्थापिताः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें