Loading...
अथर्ववेद > काण्ड 20 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 10
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-१७

    गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्। व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

    स्वर सहित पद पाठ

    गोभि॑: । त॒रे॒म॒ । अम॑तिम् । दु॒:ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ॥ व॒यम् । राज॑ऽभि: । प्र॒थ॒मा: । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१७.१०॥


    स्वर रहित मन्त्र

    गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्। वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥

    स्वर रहित पद पाठ

    गोभि: । तरेम । अमतिम् । दु:ऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ॥ वयम् । राजऽभि: । प्रथमा: । धनानि । अस्माकेन । वृजनेन । जयेम ॥१७.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 10

    टिप्पणीः - यह मन्त्र कुछ भेद से ऊपर आचुका है-अ० ७।०।७। और मन्त्र १०, ११ आगे हैं-२०।८९।१०, ११ तथा २०।९४।१०, ११ ॥ १०-अय मन्त्रो भेदेन आगतः-अ० ७।०।७ (गोभि) विद्याभिः (तरेम) अभिभवेम (अमतिम्) म० ३। दुर्बुद्धिम्। दारिद्र्यम् (यवेन) अन्नेन (क्षुधम्) बुभुक्षाम् (पुरुहूत) हे बहुभिराहूत (विश्वाम्) सर्वाम् (वयम्) (राजभिः) नृपैः (प्रथमाः) मुख्याः (धनानि) (अस्माकेन) अ० ४।३३।३। आस्माकेन। आत्मीयेन (वृजनेन) बलेन (जयेम) जयेन प्राप्नुयाम ॥

    इस भाष्य को एडिट करें
    Top