अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 5
कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त्। न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥
स्वर सहित पद पाठकृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् ॥ न । तत् । ते॒ । अ॒न्य: । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒ण: । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑न: ॥१७.५॥
स्वर रहित मन्त्र
कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत्। न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥
स्वर रहित पद पाठकृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् ॥ न । तत् । ते । अन्य: । अनु । वीर्यम् । शकत् । न । पुराण: । मघऽवन् । न । उत । नूतन: ॥१७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(कृतम्) द्यूते प्राप्तं धनम् (न) यथा (श्वघ्नी) स्व+हन हिंसागत्योः-घञर्थे कप्रत्ययः। अत इनिठनौ। पा० ।२।११। इनिप्रत्ययः, सकारस्य शः। श्वघ्नी कितवो भवति स्वं पुनराश्रितं भवति-निरु० ।२२। स्वस्य धनस्य नाशकः। कितवः। द्यूतकारकः (वि चिनोति) विविधं संगृह्णाति (देवने) द्यूते (संवर्गम्) वृजी वर्जने-घञ्, कुत्वम्। संवर्जयितारम् (यत्) यदा (मघवा) महाधनी (सूर्यम्) षष्ठ्यर्थे द्वितीया। सूर्यस्य। प्रेरकप्रधानस्य (जयत्) जयति (न) निषेधे (तत्) तदा (ते) तव (अन्यः) इतरः (वीर्यम्) वीरत्वम् (अनु शकत्) अनुकर्त्तुं शक्नोति (न) निषेधे (पुराणः) प्राचीनः (मघवन्) हे महाधनिन् (न) निषेधे (उत) अपि च (नूतनः) आधुनिकः ॥
इस भाष्य को एडिट करें