अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 2
न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय। राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥
स्वर सहित पद पाठन । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मन॑: । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ ॥ राजा॑ऽइव । द॒स्म॒ । नि । स॒द॒: । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥१७.२॥
स्वर रहित मन्त्र
न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय। राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥
स्वर रहित पद पाठन । घ । त्वद्रिक् । अप । वेति । मे । मन: । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय ॥ राजाऽइव । दस्म । नि । सद: । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥१७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(न घ) न कदापि (त्वद्रिक्) युष्मद्+अञ्चु गतिपूजनयोः-क्विन्। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा० ६।३।९२। इति सर्वनाम्नः टेः अद्रि इत्यादेशः। अचः। पा० ६।४।१३८। लुप्तनकारस्याञ्चतेर्भस्य अकारस्य लोपः। त्वां गच्छत् (अप वेति) अपगच्छति (मे) मम (मनः) चित्तम् (त्वे) शे इत्यादेशः। त्वयि (इत्) एव (कामम्) आशाम् (पुरुहूत) हे बहुविधाहूत (शिश्रय) श्रिञ् सेवायाम्-लिट्। अहमाश्रितवान् स्थापितवानस्मि (राजा) (इव) (दस्म) इषियुधीन्धिदसि०। उ० ४।१४। दसु उपक्षये, यद्वा, दस दसि दर्शनसन्दशनयोः-मक्। हे दर्शनीय (नि षदः) लेटि रूपम्। निषीद (अधि) अधिकारपूर्वकम् (बर्हिषि) उत्तमासने (अस्मिन्) (सु) सुष्ठु (सोमे) ऐश्वर्ये (अवपानम्) निश्चितरक्षणम् (अस्तु) (ते) तव ॥
इस भाष्य को एडिट करें