Loading...
अथर्ववेद > काण्ड 20 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 8
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-१७

    वृषा॒ न क्रु॒द्धः प॑तय॒द्रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः। स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥

    स्वर सहित पद पाठ

    वृषा॑ । न । क्रु॒ध्द: । प॒त॒य॒त् । रज॑:ऽसु । आ । य: । अ॒र्यऽप॑त्नी: । अकृ॑णोत् । इ॒मा: । अ॒प: ॥ स: । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रदा॑नवे । ‍अवि॑न्दत् । ज्योति॑: । मन॑वे । ह॒विष्म॑ते ॥१७.८॥


    स्वर रहित मन्त्र

    वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः। स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥

    स्वर रहित पद पाठ

    वृषा । न । क्रुध्द: । पतयत् । रज:ऽसु । आ । य: । अर्यऽपत्नी: । अकृणोत् । इमा: । अप: ॥ स: । सुन्वते । मघऽवा । जीरदानवे । ‍अविन्दत् । ज्योति: । मनवे । हविष्मते ॥१७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 8

    टिप्पणीः - ८−(वृषा) बलीवर्दः (न) यथा (क्रुद्धः) कुपितः (पतयत्) पतयति पतति शीघ्रं धावति (रजःसु) देशेषु (आ) समन्तात् (यः) सेनापतिः (अर्यपत्नीः) अर्येण स्वामिना पालिताः (अकृणोत्) अकरोत् (इमा) दृश्यमानाः (अपः) प्राप्ताः प्रजाः (सः) (सुन्वते) तत्त्वस्य निष्पादयित्रे (मघवा) महाधनी (जीरदानवे) अ० ७।१८।२। शीघ्रदानिने (अविन्दत्) अलभत (ज्योतिः) प्रकाशम् (मनवे) मननवते पुरुषाय (हविष्मते) ग्राह्यपदार्थयुक्ताय ॥

    इस भाष्य को एडिट करें
    Top