Loading...
अथर्ववेद > काण्ड 20 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 6
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-१७

    विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑। यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥

    स्वर सहित पद पाठ

    विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेना॑: । अ॒व॒ऽचाक॑शत् । वृषा॑ ॥ यस्य॑ । अह॑ । श॒क्र: । सव॑नेषु । रण्य॑ति । स: । ती॒व्रै: । सोमै॑: । स॒ह॒ते॒ । पृ॒त॒न्य॒त: ॥१७.६॥


    स्वर रहित मन्त्र

    विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा। यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥

    स्वर रहित पद पाठ

    विशम्ऽविशम् । मघऽवा । परि । अशायत । जनानाम् । धेना: । अवऽचाकशत् । वृषा ॥ यस्य । अह । शक्र: । सवनेषु । रण्यति । स: । तीव्रै: । सोमै: । सहते । पृतन्यत: ॥१७.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 6

    टिप्पणीः - ६−(विशंविशम्) मनुष्यं मनुष्यम् (मघवा) महाधनी सेनापतिः (परि अशायत) शीङ् शयने णिचि-लङ्। प्राप्तवान् (जनानाम्) मनुष्याणाम् (धेनाः) वाणीः-निघ० १।११ (अवचाकशत्) अ० ६।८०।१। अव+काशृ दीप्तौ यङ्लुकि शतृ। भृशं पश्यन्-निघ० ३।११। (वृषा) महाबली (यस्य) पुरुषस्य (अह) एव (शक्रः) शक्तिमान् (सवनेषु) यज्ञेषु (रण्यति) रण गतौ शब्दे च दिवादिः। गच्छति। प्राप्नोति (सः) मनुष्यः (तीव्रैः) तीव्र स्थौल्ये-रक्। स्थूलैः। पौष्टिकैः (सोमैः) ऐश्वर्यैः। सदौषधिरसैः (सहते) अभिभवति (पृतन्यतः) पृतनां सेनामात्मन इच्छतः शत्रून् ॥

    इस भाष्य को एडिट करें
    Top