Loading...
अथर्ववेद > काण्ड 20 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 9
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-१७

    उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत्। वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्वर्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥

    स्वर सहित पद पाठ

    उत् । जा॒य॒ता॒म् । प॒र॒शु: । ज्योति॑षा । स॒ह । भू॒या: । ऋ॒तस्य॑ । सु॒ऽदुघा॑ । पु॒रा॒ण॒ऽवत् ॥ वि । रो॒च॒ता॒म् । अ॒रु॒ष: । भा॒नुना॑ । शुचि॑: । स्व॑: । न । शु॒क्रम् । शु॒शु॒ची॒त॒ ।सत्ऽप॑ति: ॥१७.९॥


    स्वर रहित मन्त्र

    उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्। वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥

    स्वर रहित पद पाठ

    उत् । जायताम् । परशु: । ज्योतिषा । सह । भूया: । ऋतस्य । सुऽदुघा । पुराणऽवत् ॥ वि । रोचताम् । अरुष: । भानुना । शुचि: । स्व: । न । शुक्रम् । शुशुचीत ।सत्ऽपति: ॥१७.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 9

    टिप्पणीः - ९−(उत्) ऊर्ध्वम् (जायताम्) प्रादुर्भवतु (परशुः) कुठारः। वज्रः (ज्योतिषा) प्रकाशेन (सह) (भूयाः) प्रथमस्य मध्यमपुरुषः। भूयात् (ऋतस्य) सत्यस्य (सुदुघा) दुह प्रपूरणे-कप्, टाप्, हस्य घः। सुष्ठु पूरयित्री वेदवाणी (पुराणवत्) पूर्वं यथा (वि) विविधम् (रोचताम्) रोचकः प्रियो भवतु (अरुषः) अ० ३।३।२। पॄनहिकलिभ्य उषच्। उ० ४।७। ऋ गतिप्रापणयोः-उषच्। गतिशीलः (भानुना) स्वप्रकाशेन (शुचिः) शुद्धाचारी (स्वः) आदित्यः (न) यथा (शुक्रम्) शुक्लम्। निर्मलम् (शुशुचीत) शुच शोके-लिङि शपः श्लु। दीप्यताम् (सत्पतिः) सत्पुरुषाणां पालकः ॥

    इस भाष्य को एडिट करें
    Top