अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 12
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य। ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्वर सहित पद पाठबृह॑स्पते । यु॒वम् । इन्द्र॑: । च॒ । वस्व॑: । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ॥ ध॒त्तम् । र॒यिम् । स्तु॒व॒ते॒ । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१८.१२॥
स्वर रहित मन्त्र
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य। धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठबृहस्पते । युवम् । इन्द्र: । च । वस्व: । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ॥ धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥१८.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है-७।९७।१० और आगे है अथ० २०।८७।७ और चौथा पाद ऊपर आचुका है-२०।१२।६ और आगे है-२०।३७।११ ॥ इति द्वितीयोऽनुवाकः ॥ १२−(बृहस्पते) हे बृहत्या वेदवाण्या रक्षक विद्वन् (युवम्) युवाम् (इन्द्र) हे महाप्रतापिन् राजन् (च) (वस्वः) वसुनः। धनस्य (दिव्यस्य) दिवि आकाशे भवस्य (ईशाथे) स्वामिनौ भवथः (उत) अपि च (पार्थिवस्य) पृथिव्यां भवस्य (धत्तम्) दत्तम् (रयिम्) धनम् (स्तुवते) स्तोत्रं कुर्वते (कीरये) कॄगॄशॄपॄ०। उ० ४।१४३। कॄ क्षेपे-इप्रत्ययः, दीर्घश्छान्दसः, यद्वा कील बन्धने-इन्, लस्य रः। कीरिः स्तोतृनाम-निघ० ३।१६। किरति वाचा प्रेरयति स किरिः तस्मै विदुषे (चित्) अवश्यम्। अन्यद् गतम्-अ० २०।१२।६ ॥
इस भाष्य को एडिट करें