Loading...
अथर्ववेद > काण्ड 20 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 12
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७०

    स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥

    स्वर सहित पद पाठ

    स: । न॒: । वष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ॥ अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुत: ॥७०.१२॥


    स्वर रहित मन्त्र

    स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः ॥

    स्वर रहित पद पाठ

    स: । न: । वषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुत: ॥७०.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 12

    टिप्पणीः - यह मन्त्र सामवेद में है-उ० ८।१।२ ॥ १२−(सः) परमेश्वरः (नः) अस्मभ्यम् (वृषन्) हे सुखवर्षक (अमुम्) प्रसिद्धम् (चरुम्) भृमृशीङ्तॄचरि०। उ० १।७। चर गतिभक्षणयोः-उप्रत्ययः। चरुर्मेघनाम निघ० १।१०। मेघमिवोपकारकं ज्ञानम् (सत्रादावन्) सत्रा सत्यनाम-निघ० ३।१०। अतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७२। ददातेर्वनिप्। हे सत्यज्ञानस्य दातः (अप वृधि) वृञ् आच्छादने-लोट्। बहुलं छन्दसि। पा० २।४।७३। श्नोर्लुक्, श्रुशॄणुपृकृवृभ्यश्छन्दसि। पा० ९।४।१०२। इति हेर्धिः। उत्पाटय। उद्घाटय (अस्मभ्यम्) (अप्रतिष्कुतः) अथ० २०।४१।१। अप्रतिगतः ॥

    इस भाष्य को एडिट करें
    Top