अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 17
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म्। वर्षि॑ष्ठमू॒तये॑ भर ॥
स्वर सहित पद पाठआ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् । स॒ऽजित्वा॑नम् ॥ स॒दा॒सऽह॑म् ॥ वर्षि॑ष्ठम् । ऊ॒तये॑ । भ॒र॒ ॥७०.१७॥
स्वर रहित मन्त्र
एन्द्र सानसिं रयिं सजित्वानं सदासहम्। वर्षिष्ठमूतये भर ॥
स्वर रहित पद पाठआ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् ॥ सदासऽहम् ॥ वर्षिष्ठम् । ऊतये । भर ॥७०.१७॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र १७-२० ऋग्वेद में है-१।८।१-४; मन्त्र १७ साम०-पू० २।४। ॥ १७−(आ) समन्तात् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (सानसिम्) अ० २०।१४।२। षण संभक्तौ-असिप्रत्ययः। सेवनीयम् (रयिम्) धनम् (सजित्वानम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७। जि जये-क्वनिप्, सहस्य सभावः। जित्वभिर्जेतृभिः सह वर्तमानम् (सदासहम्) सर्वदा शत्रूणामभिभवितारम् (वर्षिष्ठम्) अ० ४।९।८। वृद्ध-इष्ठन्। अतिशयेन वृद्धम् (ऊतये) रक्षायै (भर) धर ॥
इस भाष्य को एडिट करें