अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 2
दे॑व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑। म॒हाम॑नूषत श्रु॒तम् ॥
स्वर सहित पद पाठदे॒व॒ऽयन्त॑: । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिर॑: । म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥७०.२॥
स्वर रहित मन्त्र
देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः। महामनूषत श्रुतम् ॥
स्वर रहित पद पाठदेवऽयन्त: । यथा । मतिम् । अच्छ । विदत्ऽवसुम् । गिर: । महाम् । अनूषत । श्रुतम् ॥७०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(देवयन्तः) दिवु विजिगीषायाम्, चुरादिः-शतृ। यद्वा देव-क्यच्, शतृ। विजिगीषमाणाः। विजयमिच्छन्तः (यथा) येन प्रकारेण (मतिम्) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। मन ज्ञाने क्तिच्। मतयो मेधाविनाम निघ० ३।१। मेधाविनम् (अच्छ) उत्तमरीत्या (विदद्वसुम्) विद ज्ञाने-शतृ। विदन्ति जानन्ति वसूनि धनानि यस्मात् तम् (गिरः) गॄ विज्ञापे स्तुतौ च-क्विप्। विद्वांसः (महाम्) नकारतकारलोपः। महान्तम् (अनूषत) अथ० २०।१७।१। स्तुतवन्तः (श्रुतम्) विख्यातम् ॥
इस भाष्य को एडिट करें