Loading...
अथर्ववेद > काण्ड 20 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 5
    सूक्त - मधुच्छन्दाः देवता - मरुद्गणः छन्दः - गायत्री सूक्तम् - सूक्त-७०

    अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑। सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥

    स्वर सहित पद पाठ

    अत॑: । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒व: । वा॒ । रो॒च॒नात् । अधि॑ ॥ सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिर॑: ॥७०.५॥


    स्वर रहित मन्त्र

    अतः परिज्मन्ना गहि दिवो वा रोचनादधि। समस्मिन्नृञ्जते गिरः ॥

    स्वर रहित पद पाठ

    अत: । परिऽज्मन् । आ । गहि । दिव: । वा । रोचनात् । अधि ॥ सम् । अस्मिन् । ऋञ्जते । गिर: ॥७०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 5

    टिप्पणीः - −(अतः) अस्मात् पूर्वोक्तात् कारणात् (परिज्मन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७। परि+अज गतिक्षेपणयोः-मनिन्, अकारलोपः। हे सर्वतो गतिशील (आ गहि) आगच्छ (दिवः) दिवु विजिगीषायाम्-क्विप्। विजयेच्छायाः सकाशात् (वा) चार्थे (रोचनात्) रुच दीप्तावभिप्रीतौ च युच्। प्रीतिभावात् (अधि) उपरि (सम्) सम्यक् (अस्मिन्) वचसि (ऋञ्जते) ऋञ्जतिः प्रसाधनकर्मा-निरु० ६।२१। प्रकर्षेण सिध्यन्ति (गिरः) स्तुतयः-निरु० १।१० ॥

    इस भाष्य को एडिट करें
    Top