अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 15
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑। इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥
स्वर सहित पद पाठय: । एक॑: । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ ॥ इन्द्र॑: । पञ्च॑ । क्षि॒ती॒नाम् ॥७०.१५॥
स्वर रहित मन्त्र
य एकश्चर्षणीनां वसूनामिरज्यति। इन्द्रः पञ्च क्षितीनाम् ॥
स्वर रहित पद पाठय: । एक: । चर्षणीनाम् । वसूनाम् । इरज्यति ॥ इन्द्र: । पञ्च । क्षितीनाम् ॥७०.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यः) परमेश्वरः (एकः) अद्वितीयः (चर्षणीनाम्) अ० १।।४। चरणशीलानां मनुष्याणाम्-निघ० २।३। (वसूनाम्) श्रेष्ठगुणानाम् (इरज्यति) इरज इर्ष्यायाम्, कण्वादिः। इरज्यतिरैश्वर्यकर्मा-निघ० २।२१। ईष्टे (इन्द्रः) स परमेश्वरः (पञ्च) सप्यशूभ्यां तुट् च। उ० १।१७। पचि व्यक्तीकरणे-कनिन्। पृथिवीजलतेजोवाय्वाकाशपञ्चभूतसम्बद्धानाम् (क्षितीनाम्) क्षि निवासगत्योः-क्तिन्। क्षितिः पृथिवीनाम-निघ० १।१। गतिशीलानां लोकानाम् ॥
इस भाष्य को एडिट करें