Loading...
अथर्ववेद > काण्ड 20 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 11
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७०

    इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे। युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ ॥ युज॑म् । वृ॒त्रेषु॑ । व॒ज्रि॒ण॑म् ॥७०.११॥


    स्वर रहित मन्त्र

    इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे। युजं वृत्रेषु वज्रिणम् ॥

    स्वर रहित पद पाठ

    इन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ॥ युजम् । वृत्रेषु । वज्रिणम् ॥७०.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 11

    टिप्पणीः - यह मन्त्र सामवेद में भी है-पू० २।४।६ ॥ ११−(इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (वयम्) (महाधने) महाधने संग्रामनाम-निघ० २।१७। प्रभूतधननिमित्ते संग्रामे। यद्वा, महच्च तद् धनं च। प्रभूते धने (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (अर्भे) अर्त्तिगॄभ्यां भन्। उ० ३।१२। ऋ गतौ-भन्। गतिशीले (हवामहे) आह्वयामहे (युजम्) युजिर् योगे, युज समाधौ च-क्विप्। सहायकम् (वृत्रेषु) आवरकेषु शत्रुषु (वज्रिणम्) दण्डधारिणम् ॥

    इस भाष्य को एडिट करें
    Top