Loading...
अथर्ववेद > काण्ड 20 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 6
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७०

    इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑। इन्द्रं॑ म॒हो वा॒ रज॑सः ॥

    स्वर सहित पद पाठ

    इ॒त: । वा॒ । सा॒तिम् । ईम॑हे । दि॒व: । वा॒ । पार्थि॑वात् । अधि॑ ॥ म॒ह: । वा॒ । रज॑स: ॥७०.६॥


    स्वर रहित मन्त्र

    इतो वा सातिमीमहे दिवो वा पार्थिवादधि। इन्द्रं महो वा रजसः ॥

    स्वर रहित पद पाठ

    इत: । वा । सातिम् । ईमहे । दिव: । वा । पार्थिवात् । अधि ॥ मह: । वा । रजस: ॥७०.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 6

    टिप्पणीः - ६−(इतः) अस्मात् पूर्वोक्तात् कारणात् (वा) च (सातिम्) ऊतियूतिजूतिसातिहेति० पा० ३।३।९७। षणु दाने-क्तिन्। दानम्। उपकारम् (ईमहे) ईङ् गतौ शपो लुकि श्यनभावः। याचामहे-निघ० ३।१९। (दिवः) प्रकाशात् (वा) च (पार्थिवात्) सर्वभूमिपृथिवीभ्यामणञौ। पा० ।१।४१। पृथिवी-अञ् प्रत्ययः संयोगविषये। पृथिवीसंयोगात् (अधि) अधिकारपूर्वकम् (इन्द्रम्) महाप्रतापिनं मनुष्यम् (महः) महतः (वा) अवधारणे (रजसः) उदकं रज उच्यते-निरु० ४।१९। जलात्। अन्तरिक्षात्। वायुमण्डलात् ॥

    इस भाष्य को एडिट करें
    Top