अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 1
स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
स्वर सहित पद पाठस॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑: । नभ॑स्वती: । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥
स्वर रहित मन्त्र
समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु। महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥
स्वर रहित पद पाठसम्ऽउत्पतन्तु । प्रऽदिश: । नभस्वती: । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(समुत्पतन्तु) सम्यग् उद्गच्छन्तु। उद्यन्तु (प्रदिशः) प्रकृष्टा दिशः (नभस्वतीः) नभः-म० ३। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्ण दीर्घः। नभस्वत्यः। मेघवत्यः (अभ्राणि) अभ्र गतौ=पचाद्यच्। पा० ६।१।१३४। यद्वा, अप-भृञ्-क। अपो जलानि बिभ्रति धारयन्तीति। मेघाः (वातजूतानि) जु वेगे-क्त, दीर्घत्वम्। वायुना प्रेरितानि (संयन्तु) संगच्छन्ताम् (महऋषभस्य) ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति ऋष गतौ-अभच् स च कित्। महागतिशीलस्य (नदतः) गर्जतः (नभस्वतः) आकाशस्थस्य मेघस्य (वाश्राः) स्फायितञ्चिवञ्चि०। उ० २।१३। इति वाशृ शब्दे-रक्। शब्दायमानाः (आपः) जलधाराः (पृथिवीम्) भूमिम् (तर्पयन्तु) तृप्ताम् ओषधिप्ररोहणसमर्थां कुर्वन्तु ॥
इस भाष्य को एडिट करें