Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 13
    सूक्त - अथर्वा देवता - मण्डूकसमूहः, पितरगणः छन्दः - अनुष्टुप् सूक्तम् - वृष्टि सूक्त

    सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑। वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥

    स्वर सहित पद पाठ

    स॒म्ऽव॒त्स॒रम् । श॒श॒या॒ना: । ब्रा॒ह्म॒णा: । व्र॒त॒ऽचा॒रिण॑: । वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूका॑: । अ॒वा॒दि॒षु॒: ॥१५.१३॥


    स्वर रहित मन्त्र

    संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः। वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥

    स्वर रहित पद पाठ

    सम्ऽवत्सरम् । शशयाना: । ब्राह्मणा: । व्रतऽचारिण: । वाचम् । पर्जन्यऽजिन्विताम् । प्र । मण्डूका: । अवादिषु: ॥१५.१३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 13

    टिप्पणीः - १३−(संवत्सरम्) संपूर्वाच्चित्। उ० ३।७२। इति बाहुलकात् सम्+वद कथने-सरन् प्रत्ययः, स च चित्। चित्वादन्तोदात्तः। सम्यग् वदनपर्यन्तम्। वर्षारम्भपर्यन्तम् इत्यर्थः (शशयानः) शिश्यानाः शयानाः. शयनशीलाः। निद्रालवः (ब्राह्मणाः) अ० २।६।३। वेदपाठिनः। ब्रह्मज्ञानिनो यथा (व्रतचारिणः) व्रत+चर-णिनि। कृतसंयमाः (वाचम्) वाणीम् (पर्जन्यजिन्विताम्) जिवि प्रीणने-क्त। पर्जन्येन प्रीतां तर्पिताम् (प्र) प्रकर्षेण (मण्डूकाः) म० १२। मज्जूकाः। भेकाः (अवादिषुः) वद-लुङ्। अवोचन् ॥

    इस भाष्य को एडिट करें
    Top