अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 2
समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥
स्वर सहित पद पाठसम् । ई॒क्ष॒य॒न्तु॒ । त॒वि॒षा: । सु॒ऽदान॑व: । अ॒पाम् । रसा॑: । ओष॑धीभि: । स॒च॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । ओष॑धय: । वि॒श्वऽरू॑पा: ॥१५.२॥
स्वर रहित मन्त्र
समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥
स्वर रहित पद पाठसम् । ईक्षयन्तु । तविषा: । सुऽदानव: । अपाम् । रसा: । ओषधीभि: । सचन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । ओषधय: । विश्वऽरूपा: ॥१५.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(समीक्षयन्तु) ईक्ष दर्शने, णिच्। संदर्शयन्तु अस्मान् वृष्टिम् (तविषाः) तवेर्णिद्वा। उ० १।४८। इति तु वृद्धिहिंसापूर्तिषु-टिषच्। तविषो महन्नाम निघ० ३।३। महान्तः (सुदानवः) दाभाभ्यां नुः। उ० ३।३२। इति दा-नु। शोभनदाना मेघाः (अपाम्) उदकानाम् (रसाः) श्रेष्ठगुणाः (ओषधीभिः) व्रीहियवादिभिः। अन्नैः। (सचन्ताम्) षच समवाये। समवयन्तु (वर्षस्य) वृष्टिजलस्य (सर्गाः) सृज्यमानाः प्रवाहाः (महयन्तु) मह वृद्धौ। वर्धयन्तु। समर्धयन्तु (भूमिम्) पृथिवीं भूमिस्थपदार्थानित्यर्थः (पृथक्) नाना प्रकारेण जातिभेदेन (जायन्ताम्) उत्पद्यन्ताम् (ओषधयः) व्रीहियवाद्याः (विश्वरूपाः) नानाविधाः ॥
इस भाष्य को एडिट करें