अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 11
सूक्त - अथर्वा
देवता - स्तनयित्नुः, प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - वृष्टि सूक्त
प्र॒जाप॑तिः सलि॒लादाः स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति। प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥
स्वर सहित पद पाठप्र॒जाऽप॑ति: । स॒लि॒लात् । आ । स॒मु॒द्रात् । आप॑: । ई॒रय॑न् । उ॒द॒ऽधिम् । अ॒र्द॒या॒ति॒ । प्र । प्या॒य॒ता॒म् । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒॥१५.११॥
स्वर रहित मन्त्र
प्रजापतिः सलिलादाः समुद्रादाप ईरयन्नुदधिमर्दयाति। प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वाङेतेन स्तनयित्नुनेहि ॥
स्वर रहित पद पाठप्रजाऽपति: । सलिलात् । आ । समुद्रात् । आप: । ईरयन् । उदऽधिम् । अर्दयाति । प्र । प्यायताम् । वृष्ण: । अश्वस्य । रेत: । अवाङ् । एतेन । स्तनयित्नुना । आ । इहि॥१५.११॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(प्रजापतिः) प्रजानां पालयिता वृष्टिप्रदः सूर्यः (सलिलात्) सलिकल्यनि०। उ० १।५४। इति पल गतौ-इलच्। व्यापनशीलात् (आ) समन्तात् (समुद्रात्) अन्तरिक्षात्-निघ० १।३। (आपः) सुपां सुलुक्०। पा० ७।१।३९। इति शसः स्थाने जस्। अपः। उदकानि (ईरयन्) प्रेरयन् (उदधिम्) जलधिम् (अर्दयाति) अर्दयतेर्लेटि आडागमः। अर्दयतु। रश्मिभिर्जलादानेन पीडयतु (प्र प्यायताम्) प्रवर्धताम् (वृष्णः) वर्षकस्य मेघस्य (अश्वस्य) व्यापकस्य (रेतः) स्रुरीभ्यां तुट् च। उ० ४।२०२। इति रि, रीङ् स्रवणे-असुन्, तुट् च। उदकम्-निघ० १।१२। (अर्वाङ्) अभिमुखः सन् (एतेन) पूर्वोक्तेन (स्तनयित्नुना) स्तनिहृषिपुषि०। उ० ३।२९। इति स्तन देवशब्दे-इत्नुच्। गर्जनेन सह (आ-इहि) आगच्छ हे पर्जन्य ॥
इस भाष्य को एडिट करें