Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 16
    सूक्त - अथर्वा देवता - वातः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑। त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥

    स्वर सहित पद पाठ

    म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । अ॒भि । सि॒ञ्च॒ । स॒ऽवि॒द्यु॒तम् । भ॒व॒तु॒ । वातु॑ । वात॑: । त॒न्वता॑म् । य॒ज्ञम् । ब॒हु॒ऽधा । विऽसृ॑ष्टा: । आ॒ऽन॒न्दिनी॑: । ओष॑धय: । भ॒व॒न्तु॒ ॥१५.१६॥


    स्वर रहित मन्त्र

    महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः। तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥

    स्वर रहित पद पाठ

    महान्तम् । कोशम् । उत् । अच । अभि । सिञ्च । सऽविद्युतम् । भवतु । वातु । वात: । तन्वताम् । यज्ञम् । बहुऽधा । विऽसृष्टा: । आऽनन्दिनी: । ओषधय: । भवन्तु ॥१५.१६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 16

    टिप्पणीः - १६−(महान्तम्) विशालम् (कोशम्) कुश श्लेषे-घञ्। हिरण्यादिस्थापनगृहम्। मेघम्-निघ० १।१०। (उत् अच) अञ्चु गतौ। ऊर्ध्वं प्राप्नुहि। उत्थापय (अभि) अभितः (सिञ्च) वर्षय (सविद्युतम्) स+वि+द्युत दीप्तौ-क। समानं विविधं प्रकाशितं जगत् (भवतु) (वातु) अनुकूलं संचरतु (वातः) पवनः (तन्वताम्) विस्तारयन्तु (यज्ञम्) यजनीयं कर्म (बहुधा) नानाप्रकारेण (विसृष्टाः) उत्पन्नाः। वितीर्णाः (आनन्दिनीः) आनन्द-इनि, ङीप्। आनन्दिन्यः। हर्षयुक्ताः (ओषधयः) व्रीहियवतरुगुल्मादयः ॥

    इस भाष्य को एडिट करें
    Top