अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 6
अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि। त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म् ॥
स्वर सहित पद पाठअ॒भि । क्र॒न्द॒ । स्त॒नय॑ । अ॒र्दय॑ । उ॒द॒ऽधिम् । भूमि॑म् । प॒र्ज॒न्य॒ । पय॑सा । सम् । अ॒ङ्धि॒ । त्वया॑ । सृ॒ष्टम् । ब॒हु॒लम् । आ । ए॒तु॒ । व॒र्षम् । आ॒शा॒र॒ऽए॒षी । कृ॒शऽगु॑: । ए॒तु॒ । अस्त॑म् ॥१५.६॥
स्वर रहित मन्त्र
अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि। त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥
स्वर रहित पद पाठअभि । क्रन्द । स्तनय । अर्दय । उदऽधिम् । भूमिम् । पर्जन्य । पयसा । सम् । अङ्धि । त्वया । सृष्टम् । बहुलम् । आ । एतु । वर्षम् । आशारऽएषी । कृशऽगु: । एतु । अस्तम् ॥१५.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अभि) अभितः (क्रन्द) शब्दं कुरु (स्तनय) घोषय। गर्ज (अर्दय) पीडय (उदधिम्) जलधिम् (भूमिम्) (पर्जन्य) हे मेघ (पयसा) वृष्टिजलेन (सम् अङ्धि) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। समक्तो संसिक्तां कुरु (त्वया) (सृष्टम्) प्रेरितम् (बहुलम्) अ० ३।१४।६। बहूनर्थान् लातीति, बहु+ला दानादानयोः-क। बहुपदार्थप्रापकम् (आ एतु) आगच्छतु (वर्षम्) वृष्टिजलम् (आशारैषी) शॄ वायुवर्णनिवृत्तेषु। वा० पा० ३।३।२१। इति आङ्+शॄ हिंसायाम्-घञ्। आशृणाति दुःखम् आशारः शरणम्। आशारमिच्छतीति, इष-णिनि। शरणेच्छुः (कृशगुः) गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। इति ह्रस्वः। कृशा दुर्बला गावः पशवो यस्य तथाविधिः कर्षकः (एतु) गच्छतु (अस्तम्) हसिमृग्रिण्०। उ० ३।८६। अस गतिदीप्त्यादानेषु-तन्। गृहम्-निघ० ३।४ ॥
इस भाष्य को एडिट करें