Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 6
    सूक्त - अथर्वा देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त
    33

    अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि। त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म् ॥

    स्वर सहित पद पाठ

    अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । अ॒र्दय॑ । उ॒द॒ऽधिम् । भूमि॑म् । प॒र्ज॒न्य॒ । पय॑सा । सम् । अ॒ङ्धि॒ । त्वया॑ । सृ॒ष्टम् । ब॒हु॒लम् । आ । ए॒तु॒ । व॒र्षम् । आ॒शा॒र॒ऽए॒षी । कृ॒शऽगु॑: । ए॒तु॒ । अस्त॑म् ॥१५.६॥

    स्वर रहित मन्त्र

    अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि। त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥

    स्वर रहित पद पाठ

    अभि । क्रन्द । स्तनय । अर्दय । उदऽधिम् । भूमिम् । पर्जन्य । पयसा । सम् । अङ्धि । त्वया । सृष्टम् । बहुलम् । आ । एतु । वर्षम् । आशारऽएषी । कृशऽगु: । एतु । अस्तम् ॥१५.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 6
    Acknowledgment

    हिन्दी (1)

    विषय

    वृष्टि की प्रार्थना और गुणों का उपदेश।

    पदार्थ

    (पर्जन्य) हे मेघ ! तू (अभि) सब ओर (क्रन्द) गड़गड़ कर, (स्तनय) गरज, (उदधिम्) समुद्र को (अर्दय) हिलादे, (भूमिम्) भूमि (पयसा) जलसे (सम्अङ्धि) भरदे। (त्वया) तुझ करके (सृष्टम्) भेजा हुआ (बहुलम्) बहुत पदार्थ लानेवाला (वर्षम्) वृष्टि जल (ऐतु) आवे, (आशारैषी) शरण चाहनेवाला, (कृशगुः) दुबली गौ बैलवाला किसान (अस्तम्) अपने घर (एतु) जावे ॥६॥

    भावार्थ

    पृथिवी पर वृष्टि होने से अनेक पदार्थ उपजते हैं, तब किसान आनन्दपूर्वक थके दुर्बल पशुओं को चराकर घर ले जाते हैं ॥६॥

    टिप्पणी

    ६−(अभि) अभितः (क्रन्द) शब्दं कुरु (स्तनय) घोषय। गर्ज (अर्दय) पीडय (उदधिम्) जलधिम् (भूमिम्) (पर्जन्य) हे मेघ (पयसा) वृष्टिजलेन (सम् अङ्धि) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। समक्तो संसिक्तां कुरु (त्वया) (सृष्टम्) प्रेरितम् (बहुलम्) अ० ३।१४।६। बहूनर्थान् लातीति, बहु+ला दानादानयोः-क। बहुपदार्थप्रापकम् (आ एतु) आगच्छतु (वर्षम्) वृष्टिजलम् (आशारैषी) शॄ वायुवर्णनिवृत्तेषु। वा० पा० ३।३।२१। इति आङ्+शॄ हिंसायाम्-घञ्। आशृणाति दुःखम् आशारः शरणम्। आशारमिच्छतीति, इष-णिनि। शरणेच्छुः (कृशगुः) गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। इति ह्रस्वः। कृशा दुर्बला गावः पशवो यस्य तथाविधिः कर्षकः (एतु) गच्छतु (अस्तम्) हसिमृग्रिण्०। उ० ३।८६। अस गतिदीप्त्यादानेषु-तन्। गृहम्-निघ० ३।४ ॥

    इंग्लिश (1)

    Subject

    Song of Showers

    Meaning

    Thunder and roar, O cloud, shake the flood of the firmament into showers, and bless the earth with life giving rain. Let the showers released by you fall and flow profusely, and let the hopeful farmer go home happy.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top