Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 7
    सूक्त - अथर्वा देवता - मरुद्गणः छन्दः - अनुष्टुप् सूक्तम् - वृष्टि सूक्त
    37

    सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥

    स्वर सहित पद पाठ

    सम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । वर्ष॑न्तु । पृ॒थि॒वीम् । अनु॑ ॥१५.७॥

    स्वर रहित मन्त्र

    सं वोऽवन्तु सुदानव उत्सा अजगरा उत। मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥

    स्वर रहित पद पाठ

    सम् । व: । अवन्तु । सुऽदानव: । उत्सा: । अजगरा: । उत । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । वर्षन्तु । पृथिवीम् । अनु ॥१५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    वृष्टि की प्रार्थना और गुणों का उपदेश।

    पदार्थ

    [हे मनुष्यों !] (सुदानवः) महा दानी, (अजगराः) अजगर [समान स्थूल आकारवाले] (उत्साः) स्रोते (वः) तुम्हें (उत) अत्यन्त करके (सम्) यथावत् (अवन्तु) तृप्त करें। (मरुद्भिः) पवन से (प्रच्युताः) चलाये गये (मेघाः) मेघ (पृथिवीम्) पृथिवी पर (अनु) अनुकूल (वर्षन्तु) बरसें ॥७॥

    भावार्थ

    मनुष्य मेह के समान परस्पर उपकार करें ॥७॥

    टिप्पणी

    ७−(सम्) सम्यक्। एकीभूय (वः) युष्मान् हे जनाः (अवन्तु) तर्पयन्तु (सुदानवः) म–० २। महादातारः (उत्साः) अ० १।१५।३। स्रोतांसि। कूपाः-निघ० ३।२३। (अजगराः) अज+गॄ निगरणे-अच्। अजान् गतिशीलान् जन्तून् गिरन्ति भक्षयन्ति ये। बृहत्सर्पाः। तद्वत् स्थूलाकाराः (उत) अत्यर्थम्। एव। (मरुद्भिः) वायुभिः (प्रच्युताः) प्रेरिताः (मेघाः) मिह सेचने-अच्, कुत्वम्। वारिवाहाः (वर्षन्तु) सिञ्चन्तु (पृथिवीम्) (अनु) अनुकूलम् ॥

    इंग्लिश (1)

    Subject

    Song of Showers

    Meaning

    Let the mighty bounteous showers save you from drought and promote you to prosperity. Let the clouds impelled and propelled by the winds rain down on earth in showers according to the needs of the season.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top