अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 12
सूक्त - अथर्वा
देवता - वरुणः
छन्दः - पञ्चपदानुष्टुब्गर्भा भुरिक्त्रिष्टुप्
सूक्तम् - वृष्टि सूक्त
अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज। वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥
स्वर सहित पद पाठअ॒प: । नि॒ऽसि॒ञ्चन् । असु॑र: । पि॒ता । न॒: । श्वस॑न्तु । गर्ग॑रा: । अ॒पाम् । व॒रु॒ण॒ । अव॑ । नीची॑: । अ॒प: । सृ॒ज॒ । वद॑न्तु । पृश्नि॑ऽबाहव: । म॒ण्डूका॑: । इरि॑णा । अनु॑ ॥१५.१२॥
स्वर रहित मन्त्र
अपो निषिञ्चन्नसुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज। वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥
स्वर रहित पद पाठअप: । निऽसिञ्चन् । असुर: । पिता । न: । श्वसन्तु । गर्गरा: । अपाम् । वरुण । अव । नीची: । अप: । सृज । वदन्तु । पृश्निऽबाहव: । मण्डूका: । इरिणा । अनु ॥१५.१२॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(अपः) जलानि (निषिञ्चन्) न्यग्भावेन नितरां वा वर्षयन् (असुरः) अ० १।१०।१। असून् प्राणान् रातीति। असु+रा दाने-क। प्राणप्रदः। मेघः-निघ० १।१०। (पिता) पालकः (नः) अस्माकम् (श्वसन्तु) उच्छ्वसिता भवन्तु (गर्गराः) मुदिग्रोर्गग्गौ। उ० १।१२८। इति ग शब्दे-ग प्रत्ययः। गर्ग+रा-क। गर्गशब्दं रान्ति ददतीति। शब्दं कुर्वाणः कलसा जलपात्राणि। प्रवाहाः (अपाम्) उदकानाम् (वरुण) हे वरणीय जलेश मेघ (नीचीः) न्यग्भावं गताः (अपः) वृष्टिधाराः (अव) नीचैः (सृज) त्यज (वदन्तु) ध्वनिं कुर्वन्तु (पृश्निबाहवः) स्वल्पभुजयुक्ताः (मण्डूकाः) शलिमण्डिभ्यामूकण्। उ० ४।४२। इति मडि भूषणे-ऊकण्। यद्वा। मस्ज स्नाने-ऊकण्, जकारस्य डकारे नुमि ष्टुत्वम्। मण्डयन्ति भूषयन्ति जलाशयं निमज्जन्ति जले वा। मण्डूका मज्जका मज्जनान्मदतेर्वा मोदतिकर्मणो मन्दतेर्वा तृप्तिकर्मणो मण्डयतेरिति वैयाकरणा मण्ड एषामोक इति वा मण्डो मदेर्वा मुदेर्वा-निरु० ९।५। मण्डनशीलाः। मज्जनस्वभावाः। मज्जूकाः। भेकाः (इरिणा) अर्तेः किदिच्च। उ० २।५१। इति ऋ० हिंसागतिप्रापणेषु-इनन्, शेर्लोपः। इरिणानि। ऊषरभूमीः (अनु) हीने। विहाय ॥
इस भाष्य को एडिट करें