अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 3
सूक्त - बादरायणिः
देवता - अप्सरासमूहः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुप्
सूक्तम् - कृमिनाशक सूक्त
न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्। गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒क्षग॑न्धिः प्रमन्द॒नी। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
स्वर सहित पद पाठन॒दीम् । य॒न्तु॒ । अ॒प्स॒रस॑: । अ॒पाम् । ता॒रम् । अ॒व॒ऽश्व॒सम् । गु॒ल्गु॒लू: । पीला॑ । न॒ल॒दी ।औ॒क्षऽग॑न्धि: । प्र॒ऽम॒न्द॒नी । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.३॥
स्वर रहित मन्त्र
नदीं यन्त्वप्सरसोऽपां तारमवश्वसम्। गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी। तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥
स्वर रहित पद पाठनदीम् । यन्तु । अप्सरस: । अपाम् । तारम् । अवऽश्वसम् । गुल्गुलू: । पीला । नलदी ।औक्षऽगन्धि: । प्रऽमन्दनी । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(नदीम्) अ० १।८।१। नदीत्वम्। नदीवत्पूर्णताम् (यन्तु) प्राप्नुवन्तु (अप्सरसः) म० २। अप्सु आकाशजलप्राणप्रजासु व्यापनशीलाः शक्तयः (अपाम्) व्याप्तिमतां जलानाम् (तारम्) तॄ प्लवनतरणयोः-घञ्। तरणस्थानम्, तीर्थम्, नदीकूलम् (अवश्वसम्) श्वस प्राणने-क्विप्, अन्तर्भावितण्यर्थः। अवश्वासयन्तीम्। सर्वतः पूरयन्तीम् (गुल्गुलूः) अ० २।३६।७। गुड रक्षायाम्-क्विप्+गुड-कु, स्त्रियाम् ऊङ्। डलयोरैक्यम्। गुडा रक्षासाधनेन गुडिता रक्षिता शक्तिः (पीला) पील रोधने-अच्, टाप्। रोधनशीला नियामिका (नलदी) णल बन्धने-अच्+दो अवखण्डने-क, ङीप्। बन्धनच्छेदिका (औक्षगन्धिः) औक्षः, अ० २।३६।७। उक्षाः, महन्नाम-निघ० ३।३। ततः, अण्। सर्वधातुभ्य इन्। उ० ४।११८। इति गन्ध गतिहिंसायाचनेषु-इन्। महतां योग्या गतिर्यस्यः सा (प्रमन्दनी) मदिस्तुतिमोदमदस्वप्नकान्तिगतिषु-ल्युट्, ङीप्। प्रमोदयित्री, हर्षयित्री (तत्) तस्मात् (परा) पराक्रमेण (इत) गच्छत प्राप्नुत (अप्सरसः) हे अप्सरसः। आकाशजलप्राणप्रजासु व्यापनशीलाः शक्तयः। (प्रतिबुद्धाः) प्रत्यक्षज्ञाताः (अभूतन) भू सत्तायाम् लुङ्। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति तकारस्य तन। अभूत। अवर्तिढ्वम् ॥
इस भाष्य को एडिट करें