Loading...
अथर्ववेद > काण्ड 4 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 8
    सूक्त - बादरायणिः देवता - अजशृङ्ग्योषधिः छन्दः - अनुष्टुप् सूक्तम् - कृमिनाशक सूक्त

    भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑। ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥

    स्वर सहित पद पाठ

    भी॒मा: । इन्द्र॑स्य । हे॒तय॑: । श॒तम् । ऋ॒ष्टी: । अ॒य॒स्मयी॑: । ताभि॑: । ह॒वि॒:ऽअ॒दान् । ग॒न्ध॒र्वान् । अ॒व॒का॒ऽअ॒दान् । वि । ऋ॒ष॒तु॒ ॥३७.८॥


    स्वर रहित मन्त्र

    भीमा इन्द्रस्य हेतयः शतं ऋष्टीरयस्मयीः। ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु ॥

    स्वर रहित पद पाठ

    भीमा: । इन्द्रस्य । हेतय: । शतम् । ऋष्टी: । अयस्मयी: । ताभि: । हवि:ऽअदान् । गन्धर्वान् । अवकाऽअदान् । वि । ऋषतु ॥३७.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 8

    टिप्पणीः - ८−(भीमाः) अ० ३।२५।१। भयंकराः (इन्द्रस्य) परमेश्वरस्य (हेतयः) अ० १।१३।३। हननशक्त्यः (शतम्) बहु-निघ० ३।१। (ऋष्टीः) ऋषी गतौ-क्तिच् क्तिन् वा। ऋष्टयः। खड्गा यथा (अयस्मयीः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति इण् गतौ-असुन्। अयस्मय्यः लौहे निर्मिताः (ताभिः) (हविरदान्) हविः+अद भक्षणे पचाद्यच्। ग्राह्यान्नभोक्तॄन् (गन्धर्वान्) म० २। वेदवाक्यादिधारकान (अवकादान्) कृञादिभ्यः उ० ५।३५। इति अव रक्षणगतिहिंसादिषु−वुन्। टाप्+अद-अच्। हिंसानां भक्षकान् नाशकान् (वि ऋषतु) व्याप्नोतु ॥

    इस भाष्य को एडिट करें
    Top