Loading...
अथर्ववेद > काण्ड 4 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 6
    सूक्त - बादरायणिः देवता - अजशृङ्ग्योषधिः छन्दः - अनुष्टुप् सूक्तम् - कृमिनाशक सूक्त

    एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्या॑वती। अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥

    स्वर सहित पद पाठ

    आ । इ॒यम् । अ॒ग॒न् । ओष॑धीनाम् । वी॒रुधा॑म् । वी॒र्य᳡ऽवती । अ॒ज॒ऽशृ॒ङ्गी । अ॒रा॒ट॒की । ती॒क्ष्ण॒ऽशृ॒ङ्गी । वि । ऋ॒ष॒तु॒ ॥३७.६॥


    स्वर रहित मन्त्र

    एयमगन्नोषधीनां वीरुधां वीर्यावती। अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥

    स्वर रहित पद पाठ

    आ । इयम् । अगन् । ओषधीनाम् । वीरुधाम् । वीर्यऽवती । अजऽशृङ्गी । अराटकी । तीक्ष्णऽशृङ्गी । वि । ऋषतु ॥३७.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 6

    टिप्पणीः - ६−(इयम्) समीपे वर्तमाना (आ अगन्) गमेर्लुङि छान्दसं रूपम्। आगमत्। आगता (ओषधीनाम्) तापनाशयित्रीणां मध्ये (वीरुधाम्) विरोहणशीलानां प्रजानां मध्ये (वीर्यावती) छान्दसो दीर्घः। अतिशयेन सामर्थ्ययुक्ता (अजशृङ्गी) म० २। अजस्य जीवात्मनो दुःखनाशनी शक्तिः (अराटकी) कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। इति अर+अट गतौ-वुन्। ङीष्। अरं शीघ्रम् अटति सा। शीघ्रगामिनी (तीक्ष्णशृङ्गी) म० २। शृङ्गाणि ज्वलतोनाम-निघ० १।१७। तीव्रतेजाः (वि ऋषथुः) ऋषी गतौ। व्याप्नोतु ॥

    इस भाष्य को एडिट करें
    Top