अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 11
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - षट्पदा जगती
सूक्तम् - कृमिनाशक सूक्त
श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः। प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥
स्वर सहित पद पाठश्वाऽइ॑व । एक॑: । क॒पि:ऽइ॑व । एक॑: । कु॒मा॒र: । स॒र्व॒ऽके॒श॒क: । प्रि॒य: । दृ॒शेऽइ॑व । भू॒त्वा ।ग॒न्ध॒र्व: । स॒च॒ते॒ । स्त्रिय॑: । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ । ब्रह्म॑णा । वी॒र्य᳡वता ॥३७.११॥
स्वर रहित मन्त्र
श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः। प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥
स्वर रहित पद पाठश्वाऽइव । एक: । कपि:ऽइव । एक: । कुमार: । सर्वऽकेशक: । प्रिय: । दृशेऽइव । भूत्वा ।गन्धर्व: । सचते । स्त्रिय: । तम् । इत: । नाशयामसि । ब्रह्मणा । वीर्यवता ॥३७.११॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(श्वा) श्वन्नुक्षन्०। उ० १।१५९। इति टुओश्वि गतिवृद्ध्योः कनिन्। श्वाऽऽशुयायी शवतेर्वास्याद् गतिकर्मणः श्वसितेर्वा-निरु० ३।१८। गतिशीलः। वृद्धिशीलः (इव) अवधारणे (एकः) अद्वितीयः (कपिः) कुण्ठिकम्योर्नलोपश्च। ४।१४४। इति कपि चलने-ह। कम्पते क्रुध्यतिकर्मा-निघ० २।१२। कम्पयिता। क्रोधशीलः (कुमारः) कमेः किदुच्चोपधायाः। उ० ३।१३८। इति कमु कान्तौ−आरन्। कमनीयः (सर्वकेशकः) काशृ दीप्तौ-वुन्। अकारस्य एकारः। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद्वा, निरु० १२।२५। सर्वप्रकाशकः (प्रियः) प्रीतिकरः (दृशे) अ० १।६।३। द्रष्टुम्। सर्वदर्शनाय (भूत्वा) (गन्धर्वः) पृथिव्यादिधारकः परमेश्वरः (स्त्रियः) अ० १।८।१। स्त्यै संघाते ड्रट्, ङीप्। सर्वाः संहतीः। समूहान् (तम्) तन आघाते-ड। तानयतीति तः। आहन्तारं चोरम् (इतः) अस्मात् स्थानात् (नाशयामसि) नाशयामः (ब्रह्मणा) परमेश्वरेण सह (वीर्यावता) अतिशयसामर्थ्ययुक्तेन ॥
इस भाष्य को एडिट करें