अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 5
सूक्त - बादरायणिः
देवता - अप्सरासमूहः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - कृमिनाशक सूक्त
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒टाः क॑र्क॒र्यः॑ सं॒वद॑न्ति। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
स्वर सहित पद पाठयत्र॑ । व॒: । प्र॒ऽई॒ङ्खा: । हरि॑ता: । अर्जु॑ना: । उ॒त । यत्र॑ । आ॒घा॒टा: । क॒र्क॒र्य᳡: । स॒म्ऽवद॑न्ति । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.५॥
स्वर रहित मन्त्र
यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाटाः कर्कर्यः संवदन्ति। तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥
स्वर रहित पद पाठयत्र । व: । प्रऽईङ्खा: । हरिता: । अर्जुना: । उत । यत्र । आघाटा: । कर्कर्य: । सम्ऽवदन्ति । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यत्र) (वः) युष्माकम् (प्रेङ्खाः) प्र+ईखि गतौ-घञ्, टाप्। प्रकृष्टगतयः (हरिताः) हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे=स्वीकारे-इतन, टाप् हरणीयाः स्वीकरणीयाः (अर्जुनाः) अर्ज अर्जने प्रतियत्ने च उनन्, टाप्। अर्जनशीलाः। प्रयत्नस्वभावाः (उत) अपि च (आघाटाः) आङ्+घट चेष्टायाम्-घञ्। चेष्टायमाणाः (कर्कर्यः) कृदाधा०। उ० ३।४०। इति डुकृञ् करणे-क, रा दानग्रहणयोः-क, ङीप्। कर्कं रातीति कर्करी। कर्मग्रहीत्र्यः प्रजाः (सम्वदन्ति) सम्वादं कुर्वन्ति। अन्यत् पूर्ववत् म० ३ ॥
इस भाष्य को एडिट करें