अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 7
सूक्त - बादरायणिः
देवता - गन्धर्वाप्सरसः
छन्दः - परोष्णिक्
सूक्तम् - कृमिनाशक सूक्त
आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः। भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ॥
स्वर सहित पद पाठआ॒ऽनृत्य॑त: । शि॒ख॒ण्डिन॑: । ग॒न्ध॒र्वस्य॑ । अ॒प्स॒रा॒ऽप॒ते: । भि॒नद्मि॑ । मु॒ष्कौ । अपि॑ । या॒मि॒ । शेप॑: ॥३७.७॥
स्वर रहित मन्त्र
आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः। भिनद्मि मुष्कावपि यामि शेपः ॥
स्वर रहित पद पाठआऽनृत्यत: । शिखण्डिन: । गन्धर्वस्य । अप्सराऽपते: । भिनद्मि । मुष्कौ । अपि । यामि । शेप: ॥३७.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(आनृत्यतः) नृती गात्रविक्षेपे-शतृ। सम्यक् चेष्टायमानस्य (शिखण्डिनः) म० ४। उद्योगिनः (गन्धर्वस्य) म० २। पृथिव्यादिधारकस्य (अप्सरापतेः) अ० २।२।३। अप्सराणाम् आकाशजलप्राणप्रजासु सरणशीलानां शक्तीनां पालकस्य परमेश्वरस्य (भिनद्मि) विदारयामि (मुष्कौ) सृवृमृषिमुषिभ्यः कक्। उ० ३।४१। इति मुष स्तेये-कक्। कामक्रोधरूपौ तस्करौ (अपि) एव (यामि) याच्ञाकर्मा-निघ० ३।१९। अहं याचे (शेपः) पानीविषिभ्यः पः। उ० ३।२३। इति शीङ् शयने-प। शेपो वैतस इति पुंस्प्रजननस्य। शेपः शपतेः स्पृशतिकर्मणः-निरु० ३।२१। सामर्थ्यम् ॥
इस भाष्य को एडिट करें