अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 12
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - निचृदनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
जा॒या इद्वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम्। अप॑ धावतामर्त्या॒ मर्त्या॒न्मा स॑चध्वम् ॥
स्वर सहित पद पाठजा॒या: । इत् । व॒: । अ॒प्स॒रस॑: । गन्ध॑र्वा: । पत॑य: । यू॒यम् ।अप॑ । धा॒व॒त॒ । अ॒म॒र्त्या॒: । मर्त्या॑न् । मा । स॒च॒ध्व॒म् ॥३७.१२॥
स्वर रहित मन्त्र
जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम्। अप धावतामर्त्या मर्त्यान्मा सचध्वम् ॥
स्वर रहित पद पाठजाया: । इत् । व: । अप्सरस: । गन्धर्वा: । पतय: । यूयम् ।अप । धावत । अमर्त्या: । मर्त्यान् । मा । सचध्वम् ॥३७.१२॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(जायाः) जनेर्यक्। उ० ४।१११। इति जन जनने-यक्, टाप्। ये विभाषा। पा० ६।४।४३। इति आत्वम्। सुखस्य जनयित्र्यः (इत्) एव (वः) युष्मभ्यम् (अप्सरसः) म० २। आकाशादिषु सरणशीलाः शक्त्यः (गन्धर्वाः) म० २। हे विद्यायाः पृथिव्या वा धारकाः पुरुषाः (पतयः) रक्षकाः (यूयम्) (अप) आनन्देन। यथा-अपचितिः पूजा (धावत) शीघ्रं गच्छत (अमर्त्या) अघ्न्यादयश्च। उ० ४।११२। इति मृङ् प्राणत्यागे-यक्, तुक् च, निपातनात्साधुः। अमराः। नित्योत्साहिनः (मर्त्यान्) हसिमृग्रिण्०। उ० ३।८६। इति मृङ् प्राणत्यागे-तन्। तस्मै हितम्। पा० ५।१।५। इति मर्त-यत्। मर्तेभ्यो मनुष्येभ्यो हितान् पुरुषान् (मा) माङ् माने-क्विप्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्लुक्। मया लक्ष्म्या। इन्दिरा लोकमाता मा-इत्यमरः। १।२९। (सचध्वम्) समवेत ॥
इस भाष्य को एडिट करें