अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 2
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
स्वर सहित पद पाठत्वया॑ । व॒यम् । अ॒प्स॒रस॑: । ग॒न्ध॒र्वान् । चा॒त॒या॒म॒हे॒ । अज॑ऽशृङ्गि । अज॑ । रक्ष॑: । सर्वा॑न् । ग॒न्धेन॑ । ना॒श॒य॒ ॥३७.२॥
स्वर रहित मन्त्र
त्वया वयमप्सरसो गन्धर्वांश्चातयामहे। अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥
स्वर रहित पद पाठत्वया । वयम् । अप्सरस: । गन्धर्वान् । चातयामहे । अजऽशृङ्गि । अज । रक्ष: । सर्वान् । गन्धेन । नाशय ॥३७.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(त्वया) (वयम्) (अप्सरसः) अ० २।२।३। सरतेरप्पूर्वादसिः। उ० ४।२३७। इति अप्+सृ गतौ-असि। अप्सु आकाशे, जले प्राणेषु प्रजासु च सरणशीलाः शक्तीः (गन्धर्वान्) अ० २।१।२। विद्याधारकान् पृथिवीधारकान् वा गुणान् (चातयामहे) चते याचने, भ्वा०। अत्र चुरादिः। याचामहे (अजशृङ्गि) अजो जीवात्मा-अ० ४।१४।१। शृङ्गम्-अ० २।३२।६। शॄ हिंसायाम्-गन्, स च कित् नुट् च। ङीप्। अजस्य जीवात्मनः शृङ्गं दुःखनाशनं यस्याः सा शक्तिः परमेश्वरः तत्सम्बुद्धौ अजशृङ्गीति ओषधिविशेषोऽप्यस्ति (अज) प्रक्षिप (रक्षः) रक्ष पालने-अपादाने क्विप्। राक्षसान् (सर्वान्) (गन्धेन) गन्ध गतिहिंसायाचनेषु-अच्। स्वव्याप्त्या (नाशय) ॥
इस भाष्य को एडिट करें