अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 11
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः। स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
स्वर सहित पद पाठस॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्यु॒: । स॒हऽमू॑रान् । अनु॑ । द॒ह॒ । क्र॒व्य॒ऽअद॑: । मा । ते॒ । हे॒त्या: । मु॒क्ष॒त॒ । दैव्या॑या: ॥२९.११॥
स्वर रहित मन्त्र
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः। सहमूराननु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
स्वर रहित पद पाठसनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्यु: । सहऽमूरान् । अनु । दह । क्रव्यऽअद: । मा । ते । हेत्या: । मुक्षत । दैव्याया: ॥२९.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(सनात्) चिरम्−निरु० १२।३६। नित्यम्−(अग्ने) विद्वन् भौतिक वा (मृणसि) नाशयसि (यातुधानान्) अ० १।७।१। पीडाप्रदान् प्राणिनो रोगान् वा (न) निषेधे (त्वा) त्वामग्निम् (रक्षांसि) राक्षसाः प्राणिनो रोगा वा (पृतनासु) अ० ३।२१।३। संग्रामेषु (जिग्युः) जि जये लिट्। जयं प्रापुः (सहमूरान्) मूलेन कारणेन सहितान् (अनु) अनुक्रमेण (दह) भस्मीकुरु (क्रव्यादः) मांसभक्षकान् (मा मुक्षत्) मुच्लृ मोक्षणे−लुङ्, अडभावो माङि। मुक्ता मा भूवन्। न मुक्ता भवन्तु ॥
इस भाष्य को एडिट करें