Loading...
अथर्ववेद > काण्ड 5 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 1
    सूक्त - चातनः देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - रक्षोघ्न सूक्त

    पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम्। त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ॥

    स्वर सहित पद पाठ

    पु॒रस्ता॑त् । यु॒क्त: । व॒ह॒ । जा॒त॒ऽवे॒द॒: । अग्ने॑ । वि॒ध्दि । क्रि॒यमा॑णम् । यथा॑ । इ॒दम् । त्वम् । भि॒षक् । भे॒ष॒जस्य॑ । अ॒सि॒ । क॒र्ता । त्वया॑ । गाम् । अश्व॑म् । पुरु॑षम् । स॒ने॒म॒ ॥२९.१॥


    स्वर रहित मन्त्र

    पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम्। त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥

    स्वर रहित पद पाठ

    पुरस्तात् । युक्त: । वह । जातऽवेद: । अग्ने । विध्दि । क्रियमाणम् । यथा । इदम् । त्वम् । भिषक् । भेषजस्य । असि । कर्ता । त्वया । गाम् । अश्वम् । पुरुषम् । सनेम ॥२९.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 1

    टिप्पणीः - १−(पुरस्तात्) अग्रतः (युक्तः) योग्यः। उद्युक्तः (वह) प्राप्नुहि, गच्छ (जातवेदः) हे प्रसिद्धविद्य (अग्ने) विद्वन् (विद्धि) जानीहि (क्रियमाणम्) अनुष्ठीयमानं कर्म (यथा) येन प्रकारेण (इदम्) (त्वम्) (भिषक्) अ० २।९।३। चिकित्सकः (भेषजस्य) औषधस्य (असि) (कर्ता) अनुष्ठाता (त्वया) (गाम्) गोजातिम् (अश्वम्) अश्वजातिम् (पुरुषम्) पुरुषसमूहम् (सनेम) षण सम्भक्तौ सम्भजेम ॥

    इस भाष्य को एडिट करें
    Top