अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 14
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
घृ॒तादुल्लु॑प्तं॒ मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तं पारयि॒ष्णु। भि॒न्दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ॥
स्वर सहित पद पाठघृ॒तात्। उत्ऽलु॑प्तम् । मधु॑ना । सम्ऽअ॑क्तम् । भू॒मि॒ऽदृं॒हम् । अच्यु॑तम् । पा॒र॒यि॒ष्णु । भि॒न्दत् । स॒ऽपत्ना॑न् । अध॑रान् । च॒ । कृ॒ण्वत् । आ । मा॒ । रो॒ह॒ । म॒ह॒ते । सौभ॑गाय ॥२८.१४॥
स्वर रहित मन्त्र
घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु। भिन्दन्त्सपत्नानधरांश्च कृण्वदा मा रोह महते सौभगाय ॥
स्वर रहित पद पाठघृतात्। उत्ऽलुप्तम् । मधुना । सम्ऽअक्तम् । भूमिऽदृंहम् । अच्युतम् । पारयिष्णु । भिन्दत् । सऽपत्नान् । अधरान् । च । कृण्वत् । आ । मा । रोह । महते । सौभगाय ॥२८.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(घृतात्) प्रकाशात् (उल्लुप्तम्) उद्धृतम् (मधुना) ज्ञानेन (समक्तम्) अञ्जू व्यक्तौ−क्त। सम्यग्−व्यक्तीकृतम् (भूमिदृंहम्) भूमि+दृहि वृद्धौ−अच्। भूमिदृढकरम् (अच्युतम्) च्युङ् गतौ−क्त। अचलम् (पारयिष्णु) णेश्छन्दसि। पा० ३।२।१३७। इति पार कर्मसमाप्तौ−इष्णुच्। पारकं ब्रह्म (भिन्दन्) विदारयत् (सपत्नान्) शत्रून् (अधरान्) नीचान् (च) (कृण्वत्) कुर्वत् (मा) माम् (आ रोह) रुह बीजजन्मनि प्रादुर्भावे च, अन्तर्गतण्यर्थः। आरूढं कुरु (महते) विशालाय (सौभगाय) अ० १।१८।२। सुभगत्वाय। शोभनैश्वर्याय ॥
इस भाष्य को एडिट करें