Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 8
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - दीर्घायु सूक्त

    त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः। प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥

    स्वर सहित पद पाठ

    त्रय॑: । सु॒ऽप॒र्णा: । त्रि॒ऽवृता॑ । यत् । आय॑न् । ए॒क॒ऽअ॒क्ष॒रम् । अ॒भि॒ऽसं॒भूय॑ । श॒क्रा: । प्रति॑ । औ॒ह॒न् । मृ॒त्युम् ।अ॒मृते॑न । सा॒कम् । अ॒न्त॒:ऽदधा॑ना: । दु॒:ऽइ॒तानि॑ । विश्वा॑ ॥२८.८॥


    स्वर रहित मन्त्र

    त्रयः सुपर्णास्त्रिवृता यदायन्नेकाक्षरमभिसंभूय शक्राः। प्रत्यौहन्मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥

    स्वर रहित पद पाठ

    त्रय: । सुऽपर्णा: । त्रिऽवृता । यत् । आयन् । एकऽअक्षरम् । अभिऽसंभूय । शक्रा: । प्रति । औहन् । मृत्युम् ।अमृतेन । साकम् । अन्त:ऽदधाना: । दु:ऽइतानि । विश्वा ॥२८.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 8

    टिप्पणीः - ८−(त्रयः) (सुपर्णाः) अ० १।२४।१। सुपोषकपदार्थाः−म० ३। (त्रिवृता) म० २। त्रिवृत्या त्रिजीवनवर्त्तनेन−म–० १। (यत्) यदा (आयन्) इण्−लङ्। अगच्छन् (एकाक्षरम्) न क्षरतीति अक्षरम्। क्षर संचलने−अच्। अद्वितीयं विनाशरहितं ब्रह्म (अभिसंभूय) भू प्राप्तौ−ल्यप्। सर्वतः प्राप्य (शक्राः) शक्ताः (प्रति) प्रतिकूलम् (औहन्) उहिर् अर्दने−लङ्। हतवन्तः (मृत्युम्) मरणसाधनं बुभुक्षादिरूपम् (अमृतेन) अमरणसाधनेन (साकम्) सहवर्तमानाः सन्तः (अन्तर्दधानाः) आच्छादयन्तः (दुरितानि) अनिष्टानि (विश्वा) सर्वाणि ॥

    इस भाष्य को एडिट करें
    Top